श्रीमद्वाल्मीकिरामायणम् (Sreemadvalmikiramayanam)

बालकाण्डम्
प्रथमः सर्गः

ॐ तपस्वी वाल्मीकिः तपःस्वाध्यायनिरतं वाग्विदां वरं मुनिपुङ्गवं नारदं—कः नु अस्मिन् साम्प्रतं लोके गुणवान्, कः वीर्यवान् च धर्मज्ञः च कृतज्ञः च सत्यवाक्यः दृढव्रतः, कः चारित्रेण च युक्तः, सर्वभूतेषु कः हितः, विद्वान् कः, कः समर्थः च, कः एकप्रियदर्शनः च, आत्मवान् कः, जितक्रोधः द्युतिमान् अनसूयकः कः, जातरोषस्य कस्य संयुगे देवाश्च बिभ्यति (इति) परिपप्रच्छ | अहम् एतत् श्रोतुमिच्छामि | मे कौतूहलं परं हि | (हे) महर्षे, एवं विधं नरं ज्ञातुं त्वं समर्थोऽसि | त्रिलोकज्ञः नारदः एतत् वचः श्रुत्वा श्रूयतामिति आमन्त्र्य च प्रहृष्टः वाक्यमब्रवीत् | (हे) मुने, बहवः दुर्लभाः च एव ये गुणाः त्वया कीर्तिताः तैः युक्तैः नरः अहं बुद्ध्वा वक्ष्यामि; श्रूयताम् | इक्ष्वाकुवंशप्रभवः रामः नाम नियतात्मा, महावीर्यः, धृतिमान्, वशी, बुद्धिमान्, नीतिमान्, वाग्मी, श्रीमान्, शत्रुनिबर्हणः, विपुलांसः, महाबाहुः, कम्बुग्रीवः, महाहनुः, महा उरस्कः, महेष्वासः, गूढजत्रुः, अरिन्दमः, आजानुबाहुः, सुशिराः, सुललाटः, सुविक्रमः, समः, समविभक्ताङ्गः, स्निग्धवर्णः, प्रतापवान्, पीनवक्षाः, विशालाक्षः, लक्ष्मीवान्, शुभलक्षणः, धर्मज्ञः, सत्यसन्धः च, प्रजानां हिते रतः च, यशस्वी, ज्ञानसम्पन्नः, शुचिः, वश्यः, समाधिमान्, प्रजापतिसमः, श्रीमान्, धाता, रिपुनिषूदनः, जीवलोकस्य रक्षिता, धर्मस्य परिरक्षिता, स्वस्य धर्मस्य रक्षिता, स्वजनस्य रक्षिता च, वेदवेदाङ्गतत्त्वज्ञः, स्मृतिमान्, प्रतिभानवान्, सर्वलोकप्रियः, साधुः, अदीनात्मा, विचक्षणः, समुद्रः सिन्धुभिः इव सद्भिः सर्वदा अभिगतः, आर्यः, सर्वसमः च एव सदा एव प्रियदर्शनः (इति) जनैः श्रुतः | सः सर्वगुणोपेतः च, कौसल्यानन्दवर्धनः, गाम्भीर्ये समुद्र इव, धैर्येण हिमवानिव, वीर्ये विष्णुना सदृशः, सोमवतप्रियदर्शनः, क्रोधे कालाग्निसदृशः, क्षमया पृथिवीसमः, त्यागे धनदेन समः, सत्ये अपरः धर्म इव | महीपतिः दशरथः एवं गुणसम्पन्नं  सत्यपराक्रमं ज्येष्ठगुणैर्युक्तं प्रियं प्रकृतीनां हितैर्युक्तं ज्येष्ठं सुतं तं रामं प्रकृतिकाम्यया यौवराज्येन संयोक्तुमैच्छत् | अथ  तस्याभिषेकसम्भारान् दृष्ट्वा पूर्वं दत्तवरा भार्या देवी कैकेयी रामस्य विवासनं भरतस्याभिषेचनं च वरम् एनं अयाचत | सः राजा दशरथः सत्यवचनात् धर्मपाशेन संयतः प्रियं सुतं रामं विवासयामास | सः वीरः कैकेय्याः प्रियकारणात् पितुर्वचननिर्देशात् प्रतिज्ञाम् अनुपालयन् वनं जगाम | विनयसम्पन्नः भ्रातुः दयितः प्रियः भ्राता सुमित्रानन्दवर्धनः लक्ष्मणः सौभ्रात्रमनुदर्शयन् व्रजन्तं तं भ्रातरं स्नेहात् अनुजगाम ह | रामस्य दयिता भार्या प्राणसमा नित्यं हिता जनकस्य कुले जाता देवमायेव निर्मिता सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः सीता अपि रामम् अनुगता रोहिणी शशिनं यथा | पौरैः पित्रा दशरथेन च दूरं अनुगतः धर्मात्मा रामः गङ्गाकुले शृङ्गवेरपुरे निषादाधिपतिं प्रियं गुहं आसाद्य गुहेन लक्ष्मणेन सीतया च सहितेन सूतं व्यसर्जयेत् | ते वनेन वनं गत्वा बहूदकाः नदीस्तीर्त्वा भरद्वाजस्य शासनात् चित्रकूटमनुप्राप्य रम्यमावसथं कृत्वा ते त्रयः तत्र वने रममाणाः देवगन्धर्वसङ्काशात् सुखं न्यवसन् | तदा रामे चित्रकूटं गते पुत्रशोकातुरः राजा दशरथः सुतं विलपन् स्वर्गं जगाम | तस्मिन् गते वसिष्ठप्रमुखैः द्विजैः नियुज्यमानः महाबलः भरतः तु राज्यं नैच्छत् | वीरः सः रामपादप्रसादकः वनं जगाम | आर्यभावपुरस्कृतः महात्मानं सत्यपराक्रमं रामं सः तु गत्वा भ्रातरं रामं अयाचत् | धर्मज्ञः त्वमेव राजा इति रामं वचोSब्रवीत् | रामोऽपि परमोदारः (अपि) सुमुखः (अपि) सुमहायशाः (अपि) महाबलः (अपि) रामः पितुरादेशात् राज्यं न चैच्छत् | भरताग्रजः राज्याय अस्य पादुके च न्यासं दत्वा ततः पुनः पुनः भरतं निवर्तयामास | सः काममनवाप्यैव रामपादौ उपस्पृशन् रामाजमनकाङ्क्षया नन्दिग्रामे राज्यम् अकरोत् | भरते गते तु श्रीमान् सत्यसन्धः जितेन्द्रियः रामः तु नागरस्य जनस्य च पुनः तत्रागमनम् आलक्ष्य एकाग्रः दण्डकान् प्रविवेश ह | राजीवलोचनः रामः महारण्यं प्रविश्य तु राक्षसं विराधं हत्वा शरभङ्गं सुतीक्ष्णं च अगस्त्यं च तथा अगस्त्यभ्रातरं (च) ददर्श ह | अगस्त्यवचनात् च एव ऐन्द्रं शरासनं खड्गं च तूणीः च अक्षयसायकौ परमप्रीतः जग्राह | तस्य रामस्य वने वसतः सर्वे ऋषयः वनचरैः सह असुररक्षसां वधाय अभ्यागमन् | तदा सः राक्षसानां वने तेषां प्रतिशुश्राव अग्निकल्पानां दण्डकारण्यवासिनां ऋषीणां संयति राक्षसां वधः च रामेण प्रतिज्ञातः | तत्रैव वसता तेन जनस्थाननिवासिनी कामरूपिणी राक्षसी शूर्पणखा विरूपिता |  ततः शूर्पणखावाक्यात् उद्युक्तान् सर्वराक्षसान् खरं एव त्रिशिरसं च दूषणं राक्षसं च एव तेषां पदानुगान् च एव रामः रणे निजघान |  तस्मिन् वने निवसतः जनस्थाननिवासिनां चतुर्दशसहस्राणि रक्षसां निहतान्यासन् | ततः रावणः ज्ञातिवधं श्रुत्वा क्रोधमूर्छितः मारीचं नाम राक्षसं सहायं वरयामास | सः रावणः (हे) रावण, बलवता तेन विरोधः ते न क्षमः (इति) मारीचेन सुबहुशः वार्यमाणः | तदा कालचोदितः रावणः तु तद्वाक्यम् अनादृत्य सहमारीचः तस्य आश्रमपदं जगाम | मायाविना तेन नृपत्मजौ दूरमपवाह्य जटायुषं गृध्रं हत्वा रामस्य भार्यां जहार | निहतं गृध्रं दृष्ट्वा च मैथिलीं हृतां श्रुत्वा च शोकसंतप्तः अकुलेन्द्रियः राघवः विललाप | ततः शोकेन तेनैव गृध्रं जटायुषं दग्ध्वा वने सीतां मार्गमाणः रूपेण विकृतं घोरदर्शनं कबन्धं नाम राक्षसं संददर्श ह | महाबाहुः तं निहत्य ददाह स्वर्गतः च सः च (हे) राघव श्रमणां धर्मचारिणीं च शबरीं अभिगच्छेति अस्य (इति) कथयामास | महातेजाः शत्रुसूदनः सः शबरीम् अभ्यगच्छत् दशरथात्मजः रामः शबर्या सम्यक् पूजितः | पम्पातीरे वानरेण हनुमता सङ्गतः ह हनुमद्वचनात् च एव सुग्रीवेण समागतः | महाबलः रामः आदितः तत्सर्वं यथावृत्तं विशेषतः सीतायाः च तत् (वृत्तं) सुग्रीवाय च शंसत् | वानरः सुग्रीवः च अपि रामस्य तत्सर्वं श्रुत्वा प्रीतः रामेण अग्निसाक्षिकं च एव सख्यं चकार | ततः दुःखितेन वानरराजेन वैरानुकथनं प्रति रामाय सर्वं प्रणयात् अवेदितम् | तदा रामेण वालिवधं प्रति च प्रतिज्ञातम् | वानरः वालिनः बलं च तत्र कथयामास | सुग्रीवः च राघवे वीर्येण नित्यं शङ्कितः आसीत् | सुग्रीवः तु राघवप्रत्ययार्थं दुन्दुभेः महापर्वतसन्निभं उत्तमं कायं दर्शयामास | महाबाहुः महाबलः अस्थि प्रेक्ष्य उत्स्मयित्वा च संपूर्णं पादाङ्गुष्ठेन दशयोजनं चिक्षेप | तदा प्रत्ययं जनयन् एकेन महा इषुणा पुनः सप्ततालान् गिरिं रसातलं चैव बिभेद | ततः  तेन प्रीतमनाः महाकपिः विश्वस्तः च सः रामसहितः गुहां किष्किन्धां जगाम | ततः अगर्जत् हरिवरः हेमपिङ्गलः सुग्रीवः | तेन महता नादेन हरीश्वरः निर्जगाम | तदा तारां अनुमान्य सुग्रीवेण समागतः | शरेण एकेन राघवः च तत्र एनं निजघान | राघवः सुग्रीववचनात् आहवे वालिनं हत्वा ततः तद्राज्ये सुग्रीवमेव प्रत्यपादयत् | सः वानरर्षभः च सर्वान् वानरान् समानीय जनकात्मजां दिदृक्षुः दिशः प्रस्थापयामास | ततः बली हनुमान् गृध्रस्य सम्पातेः वचनात् शतयोजनविस्तीर्णं लवणार्णवं पुप्लुवे | रावणपालितां पुरीं लङ्कां समासाद्य अशोकवनिकां गतां ध्यायन्तीं सीतां ददर्श | अभिज्ञानं निवेदयित्वा प्रवृत्तिं विनिवेद्य च वैदेहीं समाश्वास्य च मर्दयामास |  पञ्च सेनाग्रगान् सप्त मन्त्रिसुतानपि हत्वा शूरमक्षं निष्पिष्य ग्रहणं समुपागमत् | वीरः महाकपिः पैतामहात् वरात् आत्मानम् अस्त्रेण उन्मुक्तं ज्ञात्वा यदृच्छया यन्त्रिणः तान् राक्षसान् मर्षयन् ततः मैथिलीं सीतां ऋते लङ्कां पुरीं दग्ध्वा रामाय प्रियं आख्यातुं पुनः आयात् | सः अमेयात्मा महात्मानं रामं अभिगम्य प्रदक्षिणं कृत्वा सीता दृष्टा तत्वतः इति  न्यवेदयत् | ततः सुग्रीवसहितः महोदधेः तीरं गत्वा आदित्यसन्निभैः शरैः समुद्रं क्षोभयामास | सरितां पतिः समुद्रः आत्मानं दर्शयामास | समुद्रवचनात् एव नालं सेतुम् अकारयत् | रामः तेन पुरीं लङ्कां गत्वा आहवे रावणम् हत्वा सीताम् अनुप्राप्य परां व्रीडां उपागमत् | ततः रामः जनसंसदि तां परुषम् उवाच | सती सा सीता अमृष्यमाणा ज्वलनं विवेश | ततः अग्निवचनात् सीतां विगतकल्मषां (इति) ज्ञात्वा संप्रहृष्टः रामः सर्वदैवतैः पूजितः बभौ महात्मनः राघवस्य महता तेन कर्मणा सचराचरं सदेवर्षिगणं त्रैलोक्यं तुष्टम् | तदा लङ्कायां राक्षसेन्द्रं विभीषणम् अभिषिच्य कृतकृत्यः विज्वरः रामः प्रममोद ह | देवताभ्यः वरं प्राप्य वानरान् समुत्थाप्य च सुहृद्वृतः रामः पुष्पकेण अयोध्यां प्रस्थितः | सत्यपराक्रमः रामः भरद्वाजाश्रमं गत्वा भरतस्यान्तिके हनूमन्तं व्यसर्जयत् | पुनः सुग्रीवसहितः सः तत् पुष्पकं समारुह्य आख्यायिकां जल्पन् तदा नन्दिग्रामं ययौ | अनघः रामः भ्रातृभिः सहितः नन्दिग्रामे जटां हित्वा सीताम् अनुप्राप्य राज्यं पुनः अवाप्तवान् | (ततः) लोकः प्रहृष्टमुदितः तुष्टः पुष्ट सुधार्मिकः निरामयः हि अरोगः च दुर्भिक्षभयवर्जितः | पुरुषाः क्वचित् केचित् पुत्रमरणं न द्रक्ष्यन्ति | नार्याः अविधवाः च नित्यं पतिव्रताः भविष्यन्ति | तत्र न च किञ्चित् अग्निजं भयं जन्तवः अप्सु न मज्जन्ति वातजं भयं किञ्चित् न तथा ज्वरकृतं अपि न क्षुत् भयम् अपि न तथा तस्करभयं न | नगराणि राष्ट्राणि च धनधान्ययुतानि च यथा कृतयुगे तथा सर्वे नित्यं प्रमुदिताः | महायशाः राघवः अश्वमेधशतैः तथा बहुसुवर्णकैः इष्ट्वा गवां कोटि अयुतं दत्वा विद्वद्भ्यः ब्राह्मणेभ्यः असङ्ख्येयं धनं विधिपूर्वकं दत्वा शतगुणान् राजवंशान् स्थापयिष्यति लोके अस्मिन् चातुर्वर्ण्यं स्वे स्वे धर्मे नियोक्ष्यति | रामः दशवर्षसहस्राणि दशवर्षशतानि च राज्यम् उपासित्वा ब्रह्मलोकं प्रयास्यति | इदं पवित्रं पापघ्नं पुण्यं वेदैः संमितं च रामचरितं यः पठेत् सर्वपापैः प्रमुच्यते | (इदम्) पठन् जनः द्विजः स्यात् वागृशभत्वम् ईयात् क्षत्रियः भूमिपतित्वम् ईयात् वणिग्जनः पण्यफलत्वम् ईयात् शूद्रः अपि महत्वम् ईयात् |

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे प्रथमः सर्गः |

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s